________________ ( 354) चिजिशुसिमितम्यम्यर्देीर्घश्च // 392 // एभ्यो रः प्रत्ययो दीर्घश्चैषां भवति / चिंगट चयने चीरं जीर्ण वस्त्रं वल्कलं च / जिं अभिभवे जीरः अजाजी अग्निः वायुः अश्वश्च / जीरम् अन्नम् / लत्वे जीलः चर्मपुटः / शुं गतौ शुरः विक्रान्तः। पिंगट बन्धने सीरं हलम् / सीरा हलविलेखिता लेखा। डुमिंग्ट प्रक्षेपणे मीरः समुद्रः / मीरं जलम् / मीरा मांस्पचनी देवसीमा च / तमच काङ्क्षायां ताम्रः वर्णः शुल्वं च / अम गतौ आम्रः वृक्षः / अर्द गतियाचनयोः आई सरसम् // 392 // ____ अवे च वा / / 398 // अव रक्षणादावित्यस्माद् अरः प्रत्ययो धकारश्चान्तादेशो वा भवति / अधरः हीनः उपरिभावस्य प्रतियोगी दन्तच्छदश्च / अवरः परप्रतियोगी // 398 // मृधुन्दिपिठिकुरिकुहिभ्यः कित् // 399 // एभ्योऽरः प्रत्ययः किद् भवति / मृदश् क्षोदे मृदरः व्याधिः अतिकायः क्षोदश्च / उन्दैप् क्लेदने उदरं जठरं व्याधिश्च / पिठ हिंसासंक्लेशयोः पितरं भाण्डम् / कुरत् शब्दे कुररः जलपक्षिजातिः / कुहणि विस्मापने कुहरं गम्भीरगतः // 399 // वाश्यसिवासिमसिमथ्युन्दिमन्दिचतिचङ्ग्यङ्किकर्बिच किबन्धिभ्य उरः // 423 // .