________________ (353) शुभि दीप्तौ शुभ्रः अवदातः / उम्भत् पूरणे उभ्रो मेघः पेलवश्च / दंशं दशने दशः दन्तः सर्पश्च / चिंगट चयने चिरम् अशीघ्रम् / पिंगट बन्धने सिरा रुधिरस्रोतोवाहिनी नाडी / वहीं प्रापणे उहः अनड्वान् / विसच प्रेरणे विस्त्रम् आमगन्धि / वसं निवासे उस्रः रश्मिः / उता गौः / शुच शोके शुक्रः ग्रहः मासः शुक्लश्च / शुक्रं रेत. / लत्वे शुक्लः वर्णः, कत्वं तु न्यङवादित्वात् / षिधू गत्यां सिधः साधुः वृक्षः मांसप्रभेदश्च / गृधूच अभिकाङ्क्षायां गृध्रः श्येनः लुब्धकः * कङ्कश्च / जिइन्धैपि दीप्तौ विपूर्वात् वीध्रः अग्निः वायुः नभः निर्मलः पूर्णचन्द्रमण्डलम् / श्चिताङ वणे श्वित्रं श्वेतकुष्ठम् / वृतूङ् वर्तने वृत्रः दानवः बलवान् रिपुश्च / वृत्रं पापम् / णींग प्रापणे नीरं जलम् / शी स्वप्ने शीरः अजगरः / डुंगट अभिषवे सुरः देवः / सुरा मद्यम् / घूडौच प्राणिप्रसवे सूरः आदित्यः रश्मिश्च // 388 // इण्-धाग्भ्यां वा // 389 // / .: आभ्यां रः प्रत्ययो भवति, स च वा कित् / इंण्क् गतौ इरा मदनीयपानविशेषः मेदीनी च / एरा एडका / डुधांग्क् धारणे च धीरः सत्त्ववान् धृतिमांश्च / धारा जलयष्टिः खड्गाबयवः अश्वगतिविशेषश्च // 389 // . भन्देर्वा // 391 // . भदुङ सुखकल्याणयोः इत्यस्माद् रेः प्रत्ययः, नकारस्य च लग् वा भवति / भद्रं भन्द्रं च कल्याणं सुखं च // 391 // 23