________________ ( 392) ऋज्यजितञ्चिवचिरिपिमृपितृपिपिचुपिक्षिपिक्षुपिादिमुदिदिछिदिभिदिखिान्दिदम्भिशुभ्युम्भिदं शिचिसिवहिविसिवसिशुचिसिधिगृधिवीन्धिश्चितिवृतिनीशीसु सभ्यः कित् // 388 // एभ्यः किद् रः प्रत्ययो भवति / ऋजि गतिस्थानार्जनो. जनेषु ऋनः नायकः इन्द्रः अर्थश्च / अज क्षेपणे च वीरः विक्रान्तः / तञ्चू वञ्चू गतौ तक्रम् उदश्चित् / वक्रः कुटिलः अङ्गारकः विष्णुश्च / उभयत्र न्यवादित्वात् कत्वम् / रिपिः सौत्रः रित्रं कुत्सितम् / सृप्लं गतौ सृप्रः चन्द्रः / सुप्रं मधु / सृप्रा नदी / तृपौच प्रीतौ तृपं मेघान्तर्घमः आज्यं, काष्ठं पापं दुःखं वा। दृपौच हर्षमोहनयोः दृप्रं बलं दुःखं च / दृप्रा बुद्धिः / चुप मन्दायां गतौ चुप्रः वायुः / क्षिपीत् प्रेरणे क्षिप्रं शीघ्रम् / क्षुपि मादने सौत्रः क्षुप्रं तुहिनं कण्टकिगुल्मकश्च / क्षुद्रूपी संपेषे क्षुद्रम् अणु जलगतश्च / क्षुद्रा मधुकर्यः / शुद्रः हिंस्रः / मुदि हर्षे मुद्रा चिह्नकरणम् / रुक अश्रुविमोचने रुद्रः शम्भुः / छिद्रंपी द्वैधीकरणे छिद्रं विवरम् / भिदूपी विदारणे भिद्रम् अदृढम् / भिद्रः शरः / खिदत् परिघाते खिद्रं विघ्नः / खिद्रः विपाणं विषादः चन्द्रः दीनश्च / उन्दैप् क्लेदने उद्रः ऋषिः मत्स्यश्च / सम्पूर्वात् समुन्दन्ति आर्दीभवन्ति वेलाकाले नद्योऽस्मादिति समुद्रः सागरः भीमादित्वादपादाने / दम्भूट दम्भे दभ्रः अल्पः चन्द्रः कुशः कुशलः सूर्यश्च /