________________ ( 351) ____ एभ्यो रः प्रत्ययो भवति / जिभीक भये भेरः भेदः करभः शरः मण्डूकः दुन्दुभिः कातरश्च / ऋफिडादित्वात् लत्वे भेलः चिकित्माग्रन्थकारः शरः मण्डूकः प्रहीणः अप्राज्ञश्च / वृधूल वृद्धौ वः चर्मविकारः चन्द्रः मेघश्च / रुधूपी आवरणे रोध्रः वृक्षविशेष / वन गतौ वज्र कुलिशं रत्नविशेषश्च / अग कुटिलायां गतौ अग्र प्राग्भागः श्रेष्ठश्च। रमि क्रीडायां रम्रः कामुकः। टुवम् उद्गिरणे कम्रः धर्मविशेषः धूमश्च / वम्री उपदेहिका / टुवपीं बीजसंताने वप्रः केदारः प्राकारः वास्तुभूमिश्च / जप मानसे च जप्रः ब्राह्मणः मण्डूकश्च / शक्लंट शक्तौ शक्रः इन्द्रः / स्फायैङ वृद्धौ स्फारम् उल्वणं. प्रभूतं च / वदुङ् स्तुत्यभिवादनयोः वन्द्रः बन्दी केतुः कामश्च / वन्द्रं समूहः / इदु परमैश्वर्ये इन्द्रः शक्रः / पदिच् गतौ पद्रं ग्रामादिनिवेशः शून्यं च / मदैच् हर्षे मद्राः जनपदः क्षत्रियश्च / मद्रं सुखम् / मदुङ् स्तुत्यभिवादनयोः मन्द्रः मधुरः स्वरः, मन्द्रं गंभीरम् / चदु दीप्त्याह्लादयोः चन्द्रः शशीः सुवर्ण च / दसूच उपक्षये दस्रः शिशिरं चन्द्रमाः अश्विनोज्येष्ठश्च / दस्रो अश्विनौ / घस्लं अदने घस्रः दिवसः / णसि कौटिल्ये नस्रः नासिकापुटः ऋषिश्च / हसे हसने हस्रः दिनं घातुकः हर्षुलश्च / हस्रं बलाधानं संनिपातश्च / सहस्रं दश शतानि / असूच क्षेपणे अस्रम् अश्रु / वासिच् शब्दे वास्त्रः पुरुषः शब्दः संघातः शरभः रासभ पक्षी च / वास्रा धेनुः / दहं भस्मीकरणे दहः अग्निः शिशुः सूर्यश्च / पहि मर्षणे सहः शैलः // 387 //