________________ (390) कुलायः नीडम् / लुलिः सौत्रः लुलायः महिषः / कलि शब्दसंख्यानयोः कलायः त्रिपुटः / कष हिंसायां कषायः कल्कादि: // 372 // वेतेस्तादिः // 378 // वींक् प्रजनादावित्यस्मात् तकारादिर्णिदालीयः प्रत्ययो भवति / वैतालीयं छन्दोजातिः // 378 // धागाजिशृरमियाज्यर्तेरन्यः // 379 // एभ्योऽन्यः प्रत्ययो भवति / डुधांगक् धारणे च धान्य सस्यजातिः / राजग दीप्तौ राजन्यः क्षत्रियः ज्योतिः अग्निश्च / शृश् हिंसायां शरण्यः त्राता / रमि क्रीडायां रमण्यं शोभनम् / यनी देवपूजादौ याजन्यः क्षत्रियः यज्ञश्च / ऋक् गतौ अरण्यं वनम् // 379 // वदि-सहिभ्यामान्यः // 381 // आभ्यामान्यः प्रत्ययो भवति / वद व्यक्तायां वाचि वदान्यः दाता गुणवान् चारुभाषी वा / पहि मर्षणे सहान्यः शैलः // 381 // भीवृधिरुधिवज्यगिरमिवमिवपिजपिशकिस्फायिवन्दीन्दिपदिमदिमन्दिचन्दिदसिघसिनसिहस्यसिवासिदहिसहिभ्यो रः॥ 387 //