________________ (349) कुलेई च वा // 362 // कुल बन्धुसंम्त्यानयोः इत्यस्मात् किन यः प्रत्ययः, डकारश्वान्तादेशो वा भवति / कुड्यं भित्तिः / कुल्या सारणी // 362 // अग-पुलाभ्यां स्तम्भेडित् // 363 // " अग पुल इत्येताभ्यां परस्मात् स्तम्भेः सौत्रात् डिद् यः प्रत्ययो भवति / अगस्त्यः पुलस्त्यश्च ऋषिः // 363 // कुगुवलिमलिकणितन्याम्यक्षेरयः // 365 // एभ्यः अयः प्रत्ययो भवति / कुंक् शब्दे कवयः ऋषिः पुरोडाशश्च / गुंड शब्दे गवयः गवाकृतिः पशुविशेषः / वलि संवरणे वलयः कटकः / मलि धारणे मलयः पर्वतः / कण शब्दे कणयः आयुधविशेषः / तनूयी विस्तारे तनयः पुत्रः / अमण रोगे णिचि च आमयः व्याधिः / अक्षौ व्याप्तौ च अक्षयः विष्णुः चायः केक् च // 366 // चायग् पूजानिशामनयोः इत्यस्मादयः प्रत्ययः, अस्य च केक इत्यादेशो भवति / केकयः क्षत्रियः // 366 // कुलि-लुलि-कलि-कषिभ्यः कायः // 372 // एभ्यः किदाय प्रत्ययो भवति / कुल बन्धुसंस्त्यानयोः