________________ ( 348) पल फल शल गतौ शल्यम् अन्तर्गतं लोहादि / शक्लंटू शकतो शक्यमसारम् / ईयिः ईर्ष्यार्थः ईय॑ति ईयणं वा ईर्ष्या मात्सर्यम् / षहि मर्षणे सह्यः पश्चादर्णवपार्श्वशैलः / बन्धंश बन्धने बन्ध्या अप्रसूतिः // 357 // नत्रो हलि-पतेः / / 358 // नपूर्वाभ्यामाभ्यां यः प्रत्ययो भवति / हल विलेखने अहल्या गोतमपत्नी / पत्ल, गतौ अपत्यं पुत्रसन्तानः // 358 // सोध् च / / 359 // षनं सङ्गे इत्यस्माद् यः प्रत्ययः, धकारश्चान्तादेशो भवति / सन्ध्या दिननिशान्तरम् // 359 // मृ-शी-पसि-वस्यनिभ्यस्तादिः / / 360 // . एभ्यस्तकारादिः यः प्रत्ययो भवति / मुंत् प्राणत्यागे मर्त्यः मनुष्यः / शीफू स्वप्ने शेत्यः शकुनिः संवत्सरः अजगरश्च / पसि निवासे सौत्रो दन्त्यान्तः पस्त्यं गृहम् / वसं निवासे वस्त्यः गुरु / अनक प्राणने अन्त्यः निरवसितः चण्डालादिश्च // 360 ऋशि-जनि-पुणि-कृतिभ्यः कित // 361 // ____एभ्यः किद् यः प्रत्ययो भवति / ऋश् गतौ स्तुतौ वा स्व. रादिस्तालव्यान्तः ऋश्यः मृगजातिः / जनैचि प्रादुर्भाव जन्य संग्रामः / जाया पत्नी -- ये नवा ' इत्यात्त्वम् / पुणत् शुभे पुण्यं सत्कर्म / वृतैत छेदने कृन्तति कृत्या दुर्गा // 361 //