________________ ( 347) ध्ये चिन्तायां ध्यामः अव्यक्तवर्णः / रुक् शब्दे रुमा लवणभूमिः / पिवूच उतौ स्यूमः रश्मिः दीर्घः सूत्रतन्तुश्च / स्यूमं जलम् / शुषंच शोषणे शुष्मं बलं जलं संयोगश्च / मुषश स्तेये मुष्मः मुषिकः / ईष उन्छे ईष्मः वसन्तः बाणः वातश्च / पुहच् शक्तौ सुझाः जनपदः / सुमः राजा। युधिंच संप्रहारे युध्मः शरत्कालः शूरः शत्रुः संग्रामश्च / दसूच उपक्षये दस्मः हीनः वह्निः यज्ञश्च // 340 // क्षु-हिभ्यां वा // 341 // आभ्यां मः प्रत्ययः, स च किद वा भवति / टुक्षुक् शब्दे १मा अतसी / क्षोमं वस्त्रम् / हिंट गतिवृद्धयोः हिमं तुषारः / हेमं सुवर्णम् // 341 // स्थाछामासानुमन्यनिकनिषसिपलिकलिशलिशकी यिसहिबन्धिभ्यो.यः॥३५७ // एभ्यो यः प्रत्ययो भवति / छां गतिनिवृत्तौ स्थायः स्थानम्। स्थाया भूमिः / दों छोंच छेदने छाया तमः प्रतिरूपं कान्तिश्च / मांक माने माया छद्म दिव्यानुभावदशनं च / षोंच् अन्तकर्मणि सायं दिनावसानम् / घूत् प्रेरणे सव्यः वामः दक्षिणश्च / मनिच् ज्ञाने मन्या धमनिः / अनक् प्राणने अन्यः परः। कनै दीप्त्यादिषु कन्या कुमारी / षसक स्वप्ने सस्यं क्षेत्रस्थं गोधूमादि / पल गतौ पल्यः कटकुसूलः / कलि शब्दसंख्यानयोः कल्यः नीरोगः /