________________ . (346 ) एभ्यो मः प्रत्ययो भवति / ऋक् गतौ अर्मः अक्षिरोगः ग्रामः स्थलं च / ईरिक् गतिकम्पनयोः ईमै व्रणः / ष्टुंगा स्तुतौ स्तोमः समूहः यज्ञः स्तोत्रं च / अभिषवे सोमः चन्द्रः वल्ली चा हुंक दानादनयोः होमः आहुतिः / सं गतौ सर्मः नदः कालश्च / समं स्थानं सुखं च / धू सेचने धर्मः ग्रीष्मः ।धृत् स्थाने धर्मः उत्तमक्षमादिः न्यायश्च / शृश् हिंसायां शर्म सुखम् / क्षित् निवासगत्योः क्षेमं कल्याणम् / यक्षिण पूजायां यक्ष्मः व्याधिः / भांक् दीप्तौ भामः क्रोधः / भामा स्त्री। वांक गतिगन्धनयोः वामः प्रतिकूलः सव्यश्च / व्यंग संवरणे व्यामः वक्षोभुजायतिः / डुधांगक धारणे च धामं निलयः तेनध / पां पाने पामा कच्छुः / यांक् प्रापणे यामः प्रहरः / वलि संवरणे वल्मः ग्रन्थिः / पदिंच गतौ पद्मं कमलम् / गींग प्रापणे नेमः अर्धः समीपश्च // 338 // ग्रसि-हाग्भ्यां ग्रा-जिहौ च // 339 // आभ्यां मः प्रत्ययः, अनयोश्च ग्रानिहौ आदेशौ यथासंख्यं भवतः / ग्रामः समूहादिः / निमः कुटिलश्च // 339 // विलिभिलिसिधीन्धिधुमशाध्यारुसिविशुषिमुषीषिमुहियुधि दांसभ्यः कित् / / 340 // / एभ्यः किद् मः प्रत्ययो भवति / विलत् वरणे विल्मं प्रकाशः / भिलिः सौत्रः भिल भास्वरम् / विधू गत्यां सिध्मं रिक्षम् / श्यैङ् गतौ श्यामः वर्णः / श्यामं नभः / श्यामा रात्रिः औषधिश्च /