________________ (345). कृशगृशलिकलिकडिगर्दिरासिरमिवडिवल्लेरभः // 329 // एभ्योऽभः प्रत्ययो भवति / कृत् विक्षेपे करभः त्रिवर्षः उष्ट्रः / शश् हिंसायां शरभः श्वापदविशेषः / गत् निगरणे गरभः उदरस्थो जन्तुः / पल फल शल गतौ शलभः पतङ्गः / कलि शब्दसंख्यानयोः कलभः यौवनाभिमुखो हस्ती। कडत् मदे कडभः हस्तिपोतकः / गर्द शब्दे गर्दभः खरः / रासृङ् शब्दे रासभः खरः / रमि क्रीडायां रमभः प्रहर्षः / वडः सौत्रो धातुः वडभी वेश्मायभूमिका, लत्वे च वलभी। वल्लि संवरणे वल्लभः स्वामी दयितश्च // 329 // ऋषि-वृषि-लुसिभ्यः कित् // 331 // ____ एभ्यः किदभः प्रत्ययो भवति / ऋषैत् गतौ, वृदू सेचने ऋषभः, वृषभश्च पुङ्गवः भगवांश्चादितीर्थङ्करः / ऋषभः वायुः / लुसिः सौत्रः लुसभः हिंस्रः मत्तहस्ती वनं च // 331 // मि-टिकिभ्यामिभः सैर-टिटौ च // 332 // आभ्यामिभः प्रत्ययो भवति, दन्त्यादिः सैरः टिदृश्यादेशी यथासंख्यं भक्तः / पिंगट बन्धने सैरिभः महिषः / टिकि गतौ टिट्टिभः पक्षी / / 332 // अतीरितु सुहम्घृशक्षियक्षिभावाव्याधापायावलिपदिनी भ्या मः // 338 //