________________ ( 344) एभ्योऽम्बः प्रत्ययो भवति / डुकंग करणे करम्बः दध्योदनः दधिसक्तवः पुष्पं च / कडत् मदे कडम्बः जातिविशेषः जनपदश्च / कटे वर्षावरणयोः कटम्बः पक्वान्नविशेषः वादित्रं च / कडम्बकटम्बौ वृक्षौ च / वट वेष्टने वटम्बः शैलः तृणपुञ्जश्च // 321 // डीनीवन्धिशृधिलिभ्यो डिम्बः / / 325 // एभ्यो डिदिम्बः प्रत्ययो भवति / डीङ् विहायसा गतौ डिम्बः राजोपद्रवः / णींग प्रापणे निम्बः वृक्षविशेषः / बन्धश बन्धने बिम्बं प्रतिच्छन्दः देहश्च / बिम्बी वल्लिजातिः। शधूङ शब्दकुत्सायां शिम्बः मृगजातिः, शिम्बी निष्पाववल्ली च / चन्ट कम्पने चिम्बा यवागूजातिः // 325 / / गदरमिहनिजन्यतिलभ्यो भः // 327 // एभ्यो भः प्रत्ययो भवति / गत् निगरणे गर्भः जठरस्थः प्राणी / दृश् विदारणे दर्भः कुशः / रमिं क्रीडायां रम्भा अप्सराः कदली च / हनं हिंसागत्योः हम्भा गोधेनुनादः / जनैचि प्रादुर्भावे जम्भः दानवः दन्तश्च / जम्मा मुखदिदारणम् / अंक गतौ अर्भः शिशुः / दल विदारणे दल्भः ऋषिः वल्कलं विदारणं च // 327 // इण: बित् // 328 // इंणक गतौ इत्यस्मात् किद भः प्रत्ययो भवति / इभः हस्ती // 328 //