________________ ( 343) आभ्यां फः प्रत्ययो भवति / रींच् स्रवणे रेफः कुत्सितः / शीक स्वप्ने शेफः मेटूः // 314 // कलि-गलेरस्योच // 315 // आभ्यां फः प्रत्ययः, अकारस्य चोकारो भवति / कलि शब्दसंख्यानयोः, गल अदने कुल्फः, गुल्कः जङ्घा विसन्धिः / गुल्फः पदोपरिग्रन्थिः // 315 // शफ-कफ-शिफा-शोफादयः // 316 // शफादयः शब्दाः फप्रत्ययान्ता निपात्यन्ते / श्यतेः कायतेश्च हुम्वश्च / शफः खुरः प्रियंवदन्छ / कफः श्लेष्मा / श्यतेरित्वमोत्वं च शिफा वृक्षजटा / शोफः श्वयथुः खुरश्च / आदिशब्दाद रिफा-नफा-सुनफादयः // 316 // शम्यमेणिद् वा / / 318 // : आभ्यां बः प्रत्ययः, स च णिद् वा / शमूच् उपशमे शम्बः वज्रः कर्षणविशेषः वेणुदण्डः तोत्रम् अरित्रं च / शम्ब-शाम्बी जाम्बवतेयौ / अम्बा माता / आम्बः अपह्नवः // 318 // ___ शल्यलेरुच्चातः / / 319 / ... आभ्यां बः प्रत्ययः, अकारस्य चोकारो भवति / पल फल शल गतौ शुल्वं ताम्रम् / अली भूषणादौ उल्वं रजतं गर्भवेष्टनम् / शुल्लं बभ्रुः तरक्षुश्च // 319 // क-कडि-कटि-वटेरम्बः॥ 321 //