________________ (342) विष्टपादयः शब्दाः फिदपप्रत्ययान्ता निपात्यन्ते / विषेस्तोऽन्तश्च / विष्टपं जगत् सुकृतिनां स्थानं च / वलेरुल च उलपं पर्दततृणं पङ्कजं जलं च / उलपः ऋषिः / वातेस्तोऽन्तश्च वातपः ऋषिः / आदिग्रहणात् खरपादयो भवन्ति // 307 // कलेरापः // 308 // कलि शब्दसंख्यानयोः इत्यस्माद् आपः प्रत्ययो भवति / कलापः काञ्ची समूहः शिखण्डश्च // 308 // ___ दलेरीपो दिल् च / 310 // दल विशरणे इत्यस्मादीपः प्रत्ययो भवति, दिल चास्यादेशः / दिलीपः राजा // 310 // उडेरुणक् // 311 // उड् संघाते इत्यस्मात् सौत्रादुएक प्रत्ययो भवति / उडुपः प्लवः / जपादित्व द् वत्वे उडुवः // 311 / / अश ऊपः पश्च // 312 // अशौटि व्याप्तौ इत्यस्माद् ऊपः प्रत्ययः, पश्चान्तादेशो भवति / अभूपः पक्वान्नविशेषः // 312 // सः षपः / 313 // . सं गतौ इत्यस्मात् षपः प्रत्ययो भवति / सर्षपः रक्षोन्नं द्रव्यं शाकं च // 313 // री-शं.भ्यां फः // 314 / /