________________ ( 341) युसुकुरुतुच्युस्त्वादेरूच्च / / 297 // एभ्यः पः, ऊकारश्चान्तादेशो भवति / युक् मिश्रणे यूपः यज्ञपशुबन्धनकाष्ठम् / पुंगटू अभिषवे सूपः मुद्गादिभित्तकृतः / कुंकू शब्दे कूपः प्रहिः / रुक शब्दे रूपं श्वेतादि लावण्यं स्वभावश्च / तुक् वृत्त्यादौ तूपः आयतनविशेषः / च्युङ् गतौ च्यूपः आदित्यः वायुः संग्रामश्च / ष्टुंगा स्तुतौ स्तूपः बोधिसत्त्वभवनम् उपायतनं जिननिर्वाणस्थानोपरि चिह्नविशेषः // 297 // कृ-शू-सभ्य अर् चान्तस्य // 298 / / एभ्यः पः प्रत्ययो भवति, अन्तस्य च ऊर् / कृत् विक्षेपे कूप भ्रूमध्यम् / शश् हिंसायां शूर्पः धान्यादिनिष्पवनभाण्डं संख्या च / सं गतौ सूर्पः भुजंगमः मत्स्यजातिश्च // 298 / / नियो वा // 302 // . णींग प्रापणे इत्यस्मात् पः प्रत्ययो भवति, स च किद् वा। नीपः कदम्बः / नेपः नयः पुरोहितः वृक्षः भृतकश्च / नेपम् उदकं यानं च // 302 // शंसेः श इच्चातः // 306 // शंसू स्तुतौ चेत्यस्मादपः प्रत्ययः, तालव्यः शकारोऽन्तादेशः, अकारस्य चेकारो भवति / शिशपा वृक्षविशेषः // 30 // विष्टपोलप-वातपादयः // 307 //