________________ (340) पृ-पूभ्यां कित् // 293 // आभ्यां कित् तनः प्रत्ययो भवति / इत् व्यायामे पृतना सेना / पूगुश् पवने पूतना राक्षप्ती // 293 // कृत्यशोभ्यां स्नक् // 294 // . आभ्यां स्नक् प्रत्ययो भवति / कृतैत् छेदने कृत्स्नं सर्वम् / अशौटि व्याप्तौ अक्ष्णं नयनं व्याधिः रज्जुः तेजनम् अखण्डं च // 294 // भापाचणिचमिविषिसपतृशीतल्यलिशमिरमि- . वपिभ्यः पः // 296 // एभ्यः पः प्रत्ययो भवति / भांक दीप्तौ भापः आदित्यः ज्येष्ठश्च भ्राता / पांक रक्षणे पापं कल्मषम् / पापः घोरः / चण हिंसादानयोश्च / चण्पा नगरी / चण्पः वृक्षः / चमू अदने चम्पा नगरी। विष्लंकी व्याप्ती वेपः परमात्मा स्वर्गः आकाशश्च / निपूर्वाद् निवेष्पः अपां गर्भः कूपः वृक्षजातिः अन्तरिक्षं च / सं गतौ सर्पः अहिः / पृश् पालनपूरणयोः पर्पः प्लवः शङ्खः समुद्रः शस्त्रं च / तृ प्लवनतरणयोः तर्पः उडुपः नौश्च / शीक् स्वप्ने शेपः पुच्छम् / तलण प्रतिष्ठायां तल्पं शयनीयम् अङ्गं दाराः युद्धं च / अली भूषणादौ अल्पं स्तोकम् / शमूचु उपशमे शम्पा विद्युत् काञ्ची च / विपूर्वाद् विशम्पः दानवः / रमिं क्रीडायां रम्पा चर्मकारोपकरणम् / टुवपी बीजसंताने वप्पः पिता // 29 //