________________ (339) व्यम् / मदुङ् स्तुत्यादौ मन्दनं स्तोत्रम् / मडु भूषायां मण्डन अलंकारः / मदैच् हर्षे मदनः वृक्षः कामः मधूच्छिष्टं च / दह भस्मीकरणे दहनः अग्निः / वहीं प्रापणे वहनं नौः / आदिग्रहणात् पचेः पचनः अग्निः / पुनातेः पवनो वायुः / बिभर्तेः भरणं साधनम् / नयतेः नयनं नेत्रम् / धुतेः द्योतनः आदित्यः / रचेः रचना वैचित्र्यम् / शृङ्गेः गृञ्जनम् अभक्ष्यद्रव्यविशेषः / प्रस्कन्दनः / प्रपतनः इत्यादयो भवन्ति // 269 // पठेणित् / / 287 // पठ व्यक्तायां वाचीत्यस्माद् णिद् ईनः भवति / पाठीनः मत्स्यः // 287 // पिशि-मिथि-क्षुधिभ्यः कित् // 290 // एभ्यः किदुनः प्रत्ययो भवति / पिशत् अवयवे पिशुनः खलः / पिशुनं मैत्रीभेदकं वचनम् / मिथङ भेधाहिंसयोः मिथुन स्त्रीपुंसद्वन्द्वम् राशिश्च / क्षुधंच् बुमुक्षायां क्षुधुनः कीटकः // 29 // __ फलेगोऽन्तश्च / / 291 // फल निष्पत्तौ इत्यस्मादुनः प्रत्ययः, गश्चान्तो भवति / फल्गुनः अर्जुनः / फल्गुनी नक्षत्रम् // 291 / / वी-पति-पटिभ्यः तनः // 292 // एभ्यः तनः प्रत्ययो भवति / वींक प्रजनादौ वेतनं भृतिः / पत्ल गतौ पत्तनम् / पट गतौ पट्टनं द्वावपि नगरविशेषौ // 292 //