________________ (338) बुद्धश्च / इण्क् गतौ इनः स्वामी सन्निपातः ईश्वरः राजा सूर्यश्च / शी स्वप्ने शीनः पीलुः / दीच् क्षये दीनः खिन्नः कृपणश्च / बुधिंच ज्ञाने बुध्नः मूलं पृष्ठान्तः रुद्रश्च / अव रक्षणादौ उनम् अपरिपूर्णम् / मीच हिंसायां मीन मत्स्यः राशिश्च // 261 / / सोरू च // 263 // पुंगट अभिषवे इत्यस्माद् नः प्रत्ययः, ऊकारश्चान्तादशो भवति / सूना घातस्थानम् दुहिता पुत्रः प्रकृतिः आघाटम्थानं च // 263 // रमेस्त् च // 264 // रमि क्रीडायाम् इत्यस्माद् नः प्रत्ययः, तश्चान्तादेशो भवति। रत्नं वज्रादि / / 264 // स्वसिरसिरुचिजिमस्जिदेविस्यन्दिचन्दिमन्दिमण्डिमदिद हिवह्यादेरनः // 269 // एभ्यः अनः प्रत्ययो भवति / युक् मिश्रणे यवनाः जनपदः / यवनं मिश्रणम् / असूच क्षेपणे असनः बीजकः / रसण आस्वादनस्नेहनयोः रसना जिह्वा / रुचि अभिप्रीत्यां च रोचना गोपित्तम् / रोचनः चन्द्रः / विपूर्वाद् रोचतेः विरोचनः अग्निः सूर्यः इन्दुः दानवश्च / निं अभिभवे जयनम् उर्णापटः / टुमस्जोत् शुद्धौ मजनं स्नानं तोयं च / देवृङ् देवने देवनः अक्षः कितवश्यं / म्यदौड़ स्रवणे स्यन्दनः स्थः / चदु दीप्त्याह्लादयोः चन्दनं गन्धद्र