________________ (334) अवाद् गोऽच्च वा // 226 // अवपूर्वाद् गायतेः थः प्रत्ययः, अञ्चान्तादेशो वा भवति / अवगथः, अवगाथः अक्षसंघातः प्रातःसवनं रथयानं साम पन्थाश्च // 226 // नीनूरमितृतुदिवचिरिचिसिचिश्विहनिपागोपावोगाभ्यः कित् // 227 // एभ्यः कित् थः प्रत्ययो भवति / णींग, प्रापणे नीथं जलम् / सुनीथो नाम राजा नीतिमान् धर्मशीलः ब्राह्मणश्च / णूत् स्तवने नूथं तीर्थम् / रमिं क्रीडायां रथः स्यन्दनः / तृ प्लवनतरणयोः तीर्थ जलाशयावगाहनमार्गः पुण्यक्षेत्रमाचार्यश्च। तुदींतू व्यथनं तुत्यं चक्षुष्यो धातुविशेषः / वचं भाषणे उक्थं शास्त्रं सामवेदश्च / उक्थानि सामानि / रिचूंपी विरेचने रिक्थं धनम् / षिचीत् क्षरणे सिक्थं मदनं पुलाकश्च / ट्वोश्चि गतिवृद्ध्योः शूथः यज्ञप्रदेशः / हनं हिंसागत्योः हथः पन्थाः कालश्च / पां पाने पीथं बालवृतपानम् अम्भः नवनीतं च / पीथः मकरः रविश्च / गोपूर्वाद् गोपीथः तीर्थविशेषः गोनिपानं जलद्रोणी कालविशेषश्च / गैं शब्दे अवगीथम् यज्ञकर्मणि प्रातःशंसनम् / उद्गीथः शुनामूर्ध्वमुखानां विरावः सामगानं प्रथमोच्चारणं च // 227 // न्युद्भ्यां शीङः // 228 // न्युत्पूर्वात् शी स्वप्ने इत्यस्मात् कित् थः प्रत्ययो