________________ (333) कुलि-मयिभ्यामूतक् // 215 // आभ्यामूतक् प्रत्ययो भवति / कुल बन्धुसंस्त्यानयोः कुलूताः जनपदः / मथि गतौ मयूता वसतिः // 215 // कबेरोतः प् च // 217 // कबृङ वणे इत्यस्माद् ओतः प्रत्ययः, पश्चान्तादेशो भवति / कपोतः पक्षी वर्णश्च // 217 // सीमन्त-हेमन्त-भदन्त-दुष्यन्तादयः // 222 // एते अन्तप्रत्ययान्ता निपात्यन्ते / सिनोतेः सीम् च मी मन्तः केशमार्गः ग्रामक्षेत्रान्तश्च / हन्तेहिनोतेर्वा हेम् च हेमन्तः ऋतुः / भन्दतेः नलुक् च भन्दतः निर्ग्रन्थेषु शाक्येषु च पूज्यः / दुर्योऽन्तश्च दुष्यन्तः राजा // 222 // . शकेरुन्तः // 223 // शक्लंट् शक्तौ इत्यस्माद् उन्तः प्रत्ययो भवति / शकुन्तः पक्षी // 223 // : कमि--गाऽर्तिभ्यः थः // 225 / / एभ्यः थः प्रत्ययो भवति / कमूङ कान्तौ कन्था प्रावरणं नगरं च / प्रुङ गतौ प्रोथः प्रियः युवा शूकरमुखं घोणा च / मैं * शब्दे गाथा श्लोकः आर्या वा / ऋ गतौ अर्थः जीवाजीवादिपदार्थः प्रयोजनम् अभिधेयं धनं याच्ञा निवृत्तिश्च // 225 //