________________ ( 33.2 ) एभ्यो धातुभ्य आणक् प्रत्ययो भवति / कृपौङ् सामर्थ्य कृपाणः खड्गः / विवू सेचने विषाणं शृङ्गं करिदन्तश्च / वृषू सेचने वृषाणः। निधृषाट प्रागल्भ्ये धृषाणः देवः / मृषू सहने च मृषाणः। युषि सेवने सौत्रो धातुः युषाणः / द्रुहौच जिघांसायां द्रुहाणः मुखरः / ग्रहीश् उपादाने गृहाणः / विषाणादयः स्वप्रकृत्यर्थनाचिनः कर्तरि कारके ज्ञेयाः / 191 // पषो णित् // 192 // पषी बाधनस्पर्शनयोः इत्यस्माद् आणक् प्रत्ययः, स च णिद भवति / पाषाणः प्रस्तरः // 192 // ___-सि-तनि-तुसेदर्दीर्घश्व वा // 203 // एभ्यः कित् तः प्रत्ययो दीर्घश्च वा भवति / डुंगट अभिषवे सूतः सारथिः / सुतः पुत्रः / पिंगटु बन्धने सीता जनकात्मजा सस्यं हलमार्गश्च / सितः वर्णः बन्धश्च / तनूयी विस्तारे तातः पिता पुत्रेष्टनाम च / ततं विस्तीर्ण वाद्यविशेषश्च / तुस् शब्दे तूस्तानि वस्त्रदशाः / तुस्ता: जटाः प्रदीपनं च // 203 // ह-श्या-रुहि-शोणि-पलिभ्य इतः // 210 // एभ्य इतः प्रत्ययो भवति / हृग् हरणे हरितः वर्णः / श्यैङ् गतौ श्येतः वर्णः मृगः मत्स्यः श्येनश्च / रुहं बीजजन्मनि रोहितः वर्णः मत्स्यः मृगजातिश्च लत्वे लोहितः वर्णः / लोहितम् असृक्। शोण वर्णगत्योः शोणितं रुधिरम् / पल गतौ पलितं श्वेतकेशः॥२१०