________________ (331) पत्रं शिरश्च / कृत् विक्षेपे कर्णः श्रवणं कौन्तेयश्च / वृश् वरणे वर्णःशुक्लादिः ब्राह्मणादिः अकारादिः यशः स्तुतिः प्रकारश्च / तृ प्लवनतरणयोः तर्णः वत्सः / जपच् जरसि जर्णः चन्द्रमाः वृक्षः कर्कः क्षयधर्मा शकुनिश्च / हूँत् आदरे दर्णः पर्णम् / सृप्लं गतौ सपूर्णः . सरीसृपजातिः / पणि व्यवहारस्तुत्योः पण्णं व्यवहारः // 182 // तृकशपभृवश्रुरुरुहिलक्षिविचक्षिचुक्किबुकितङ्ग्यङ्गिमङ्किकङ्कि चरिसमीरेरणः // 187 // एभ्यः अणः प्रत्ययो भवति / तृ प्लवनतरणयोः तरणम् / कृत् विक्षेपे करणम् / शृश् हिंसायां शरणं गृहम् / पृश पालनपूरणयोः परणम् / टुडु गक् पोषणे च भरणम् / वृगट वरणे वरणः वृक्षः सेतुबन्धश्च / वरणं कन्याप्रतिपादनम् / श्रृंट श्रवणे श्रवणः कर्णः भिक्षुश्च / रुक् शब्दे, रंङ्रेषणे वा रवणः करभः अग्निः द्रुमः वायुः भृङ्गः शकुनिः सूर्यः घण्टा च / रुहं जन्मनि रोहणः गिरिः। लक्षीण दर्शनाङ्कनयोः लक्षणं व्याकरणं शुभाशुभसूचकं रेखातिलकादि अङ्कनं च। चक्षिक व्यक्तायां वाचि विचक्षणः विद्वान् / चुकण व्यथने चुक्कणः व्यायामशीलः / बुक्क भाषणे बुक्कणः श्वा वावदूकश्च / तगु गतौ तङ्गणाः जनपदः / अगु गतौ अङ्गणम् अजिरम् / मकुङ् मण्डने मङ्कणः ऋषिः / ककुङ् गतौ कङ्कणः प्रतिसरः। चर भक्षणे च चरणः पादः / ईरिक गतिकम्पनयोः सम्पूर्वः समीरणः वातः।। ... कृपिविषिदृषिधृषिमृषियुषिद्रुहिग्रहेराणक् // 191 //