________________ (330) कुणत् शब्दोपकरणयोः कुण्डं भाजनं जलाधारविशेषश्च / कुण्डः भर्तरि जीवति जारेण जातः अपट्विन्द्रियश्च / तुणत् कौटिल्ये तुण्डं मुखम् / पुणत् शुभे पुण्डः भिन्नवर्णः / मुणत् प्रतिज्ञाने मुण्डः परिवापितकेशः / शुनत् गतौ शुण्डा सुरा हस्तिहस्तश्च / आदिग्रहणादन्येभ्योऽपि भवति // 170 // शमि-पणिभ्यां ढः // 179 // आभ्यां ढः प्रत्ययो भवति / शमूच उपशमे शण्डः नपुंसकम् / पण भक्तौ घण्टः स एव // 179 // कुणेः कित् // 180 // कुणत् शब्दोपकरणयोरित्यर मात् किद्,८ः भवति / कुण्डः धूर्तः // 180 // नत्रः सहेः षा च // 181 // नजपूर्वात् षहि मर्षणे इत्यस्माद् ढः प्रत्ययः, पा चास्यादेशो भवति / आषाढा नक्षत्रम् // 181 // इणुर्विशावेणिकृवृतजस्मृपिपणिभ्यो णः // 182 // - एभ्यो णः प्रत्ययो भवति / इंक गतौ एणः कुरङ्गः। मैं हिंसायाम् उर्गा मेषादिलोम भ्रुवोरन्तरावर्तश्च / शोंच तक्षणे शाणः परिमाणं शस्त्रतेजनं च / वेणग गतिज्ञानचिन्तानिशामनवादित्रग्रहणेषु वेण्णा कृष्णवेण्णा च नाम नदी / पृश पालनपूरणयोः पण 666