________________ ( 329) नरसि जरठः कठोरः / शश् हिंसायां शरठः आयुधं पापं क्रीडनशीलश्च / काङ् कान्तौ कमठः भिक्षाभाजनं कूर्मास्थि कच्छपः मयूरः वामनश्च / अम गतौ अमठः प्रकर्षगतिः / रमि क्रीडायां रमठः देशः कृमिजातिः क्रीडनशीलः म्लेच्छ: देवश्च विलातानाम् / रप व्यक्ते वचने रपठः विद्वान् मण्डूकश्च // 16 // पञ्चमात् डः // 168 // पञ्चमान्ताद् धातोः डः प्रत्ययो भवति / षण भक्तौ षण्डः वनं वृषभश्च / भण शब्दे भण्डः प्रहसनकरः बन्दी च / चण शब्दे चण्डः क्रूरः / पणि व्यवहारस्तुत्योः पण्डः शण्ठः। गणण संख्याने गण्डः पौरुपयुक्तः पुरुषः / मण शब्दे मण्डः रश्मिः अग्रम् अन्नविकारश्च / वन भक्तौ वण्डः अल्पशेफः निश्चर्माग्रशिश्नश्च / शमू दमूच् उपशमे शण्डः उत्सृष्टः पशुः ऋषिश्च / दण्डः वनस्पतिप्रतानः राजशासनं नालं प्रहरणं च / रमिं क्रीडायां रण्डः पुरुषः, रण्डा स्त्री, रण्डमन्तःकरणम् एतत् त्रयमपि स्वसम्बन्धिशुन्यमेवमुच्यते / तमेस्तने, तण्डः ऋषिः / वितण्डा तृतीयकथा / गमेः गण्डः कपोलः / भामि क्रोधे भाण्डमुपस्करः // 168 // कुगुहुनीकुणितुणिपुणिमुगिशुन्यादिभ्यः कित् // 170 // - एभ्यो धातुभ्यः किद् डः प्रत्ययो भवति / कुङ् शब्दे कुडः 'घटः हलं च / गुंङ् शब्दे गुडः गोलः इक्षुविकारश्च ।गुडा सन्नाहः / हुँक् दानादनयोः हुडः मूर्खः मेषश्च / णींग प्रापणे नीडं कुलायः / . ..