________________ ( 328) भृत्यः शिरः कपालं च / करोटं भाजनविशेषः / शक्लंट् शक्ती शकोटः बाहुः / शाख श्लाघु व्याप्तौ शाखोटः वृक्षविशेषः // 160 // ___वनि-कणि-काश्युपिभ्यष्ठः // 162 // एभ्यो धातुभ्यः ठः प्रत्ययो भवति / वन भक्तौ वण्ठः अनिविष्टः / कण शब्दे कण्ठः कन्धरा। काशृङ् दीप्तौ काष्ठं दारु / काष्ठा दिक् अवस्था च / उषू दाहे ओष्ठः दन्तच्छदः // 162 // पो-विशि-कुणि-पृषिभ्यः कित् / / 163 // एभ्यः कित् ठः प्रत्ययो भवति / पीच् पाने पीठम् आसनम् / विशंत् प्रवेशने विष्ठा पुरीषम् / कुणत् शब्दोपकरणयोः कुण्ठः अतीक्ष्णः। पृषू सेचने पृष्ठः अङ्कुशः शरीरकैदेशश्च // 163 // कुर्वा // 164 // कुष्श् निष्कर्षे इत्यस्मात् ठः प्रत्ययो भवति, स च किद्धा कुष्ठं व्याधिः गन्धद्रव्यं च / कोष्ठः कुशूलः उदरं च // 164 // शमेलक् च वा // 165 // शमूच् उपशमे इत्यस्मात् ठः प्रत्ययो भवति, अन्त्यस्य च वा लुक् / शठः धूर्तः / शण्ठः धूर्तः नपुंसकं च // 165 // - मृजशूकम्यमिरमिरपिभ्योऽठः // 167 // . एभ्यो धातुभ्यः अठः प्रत्ययो भवति / मुंत् प्राणत्यागे मरठः अतिद्रवीभूतं दधि कृमिजातिः कण्ठः प्राणश्च / जष्च