________________ (327) मर्कटः कपिः क्षुद्रजन्तुश्च / कक्ख हसने कक्खटः कर्कशः / तू प्लवनतरणयोः तरटः पीनः / डुकंग करणे करटः काकः करिकपोलश्च / सुं गतौ सरटः कृकलासः / टुडुभंगक् पोषणे च भरटः भृत्यः कुलालः प्लवविशेषश्च / वृकुटु वरणे वरटः क्षुद्रधान्यं प्रहारश्च // 142 // कपट-कीकटादयः // 144 // कपटादयः शब्दा अटप्रत्ययान्ता निपात्यन्ते / कम्पेनलोपश्च कपटं माया / ककेरत ईच्च कीकटः कृपणः / आदिशब्दात् लघटः, पर्पटः इत्यादयः // 144 // तृ-कृ-कृषि-कम्पि-कृषिभ्यः कीरः॥ 151 // एभ्यो धातुभ्यः किदीटः प्रत्ययो भवति / तृ प्लवनतरणयोः तिरीटं कूलवृक्षः मुकुटं वेष्टनं च / कृत् विक्षेपे किरीटं मुकुट हिरण्यं च / कृपौङ् सामर्थ्य कृपीटं हिरण्यं जलं च / कपुङ चलने कम्पीटं कम्पः कम्प्रं च / कृषीत् विलेखने कृषीटं जलम् // 11 // बन्धः // 157 // बन्धश बन्धने इत्यस्मात् किदूट: प्रत्ययो भवति / वधूटी प्रयमवयाः स्त्री // 157 // कृ-शक्-शाखेरोटः // 160 // - एभ्यो धातुभ्य ओटः प्रत्ययो भवति / डुग करणे करोटः