________________ (326) भिषेभिष-भिष्णौ च वा / / 131 / / . भिषेरजः प्रत्ययो भिषभिष्णौ चादेशौ वा भवतः / भिषिः . सौत्रो धातुः भिषजः, भिष्णनः वैद्यः / भेषजमौषधम् // 131 // मुमुर् च // 132 // मुवै बन्धने इत्यस्मादजः प्रत्ययः, अम्य च मुरित्यादेशश्च भवति मुरजः मृदङ्गः // 132 // उटजादयः // 134 // उटनादयः शब्दा अजात्ययान्ता निपात्यन्ते / वटेर्वम्योत्त्वं च उटनं मुनिकुटीरः / आदिशब्दाद् भूनः भरुन इत्यादयोऽपि // 134 // दिव्यविश्रुकुर्विशकिकङ्किकृपिचपिचमिकम्येधिकार्किमर्कि- कक्खितृकसभृवृभ्योऽटः // 142 // / एभ्यो धातुभ्योऽटः प्रत्ययो भवति / दिवच क्रीडादौ देवटः देवकुलविशेषः शिल्पी च / अव रक्षणादौ अवटः प्रपातः कूपश्च। श्रृंट श्रवणे श्रवटः छत्त्रम् / कुंक शब्द कवटः उच्छिष्टम् / कर्व गतौ कर्व क्षुद्रपत्तनम् / शक्लंट शक्तौ शक्टम् अनः / ककुङ् गतौ कङ्कटः सन्नाहः / कङ्कट सीमा / कृपौङ सामर्थ्य कर्पटं वासः / चप सान्त्वने चपटः रसः / चमू अदने चमट: घस्मरः / छमङ कान्तौ कमटः वामनः / एधि वृद्धौ एघटः वल्मीकः / कर्कि-पौ सौनौ धातू कर्कटः कपिलः कुलीरश्च / कर्कटी त्रपुसी।