________________ (335) भवति / निीयः अवरात्रः रात्रिः प्रदोषश्च / उच्छीथः स्वप्नः टिष्टिभश्च // 228 // सतेर्णित् // 230 // सं गतौ इत्यस्मात् णित् थः प्रत्ययो भवति / सार्थः समूहः // 230 // पथयूथगूथकुथतिथनिथमूरथादयः // 231 // एते थान्ता निपात्यन्ते / पलतेः लो लुक् च पथः पन्थाः / यौतेगुवश्च दीर्घश्च यूथं समूहः / गूथम् अमेध्यं विष्ठा च / किरतेः करोतेर्वा कुश्च कुथः कुथा वा आस्तरणम् / तनोतेः तिष्ठतेर्वा तिश्च तिथः कालः / तिम्यतेः तिथः प्रावृटकालः / नयतेः हस्वश्च निथः पूर्वक्षत्रियः कालश्च / सुपूर्वाद् रमेः सूरथः दान्तः // 231 // भृशीशपिशमिगमिरमिवन्दिवश्चिजीविप्राणिभ्योऽथः // 232 // : एभ्यः अथः प्रत्ययो भवति / टुडु,गक् पोषणे च भरथः कैकेयीसुतः अग्निः लोकपालश्च / शी स्वप्ने शयथ: अजगरः प्रदोषः मत्स्यः वराहश्च / शपी आक्रोशे शपथः प्रत्ययकरणमाकोशश्च / शमूच उपशमे शमथः समाधिः आश्रमपदं च / गम्लं गतौ गमथः पन्थाः पथिकश्च / रमि क्रीडायां रमथः प्रहर्षः / वदुङ् स्तुत्यभिवादनयोः वन्दथः स्तोता स्तुत्यश्च / वचू गतो वञ्चयः अध्वा कोकिलः काकः दम्भश्च / जीव प्राणधारणे जीवथः