________________ ( 323) / एते उम्प्रत्ययान्ता निपात्यन्ते / शमूच उपशमे शम्बूक, शाम्बूकः शङ्खः / वश वरणे वृधूकः मातृवाहकः / वृधूकं जलम् / मदेः मधूकः वृक्षः / अलेः उलूकः काकारिः / उरुपूर्वाद् वाते: उस्कः एरण्डः / वृधेः वरूकः तृणजातिः // 61 // - जीवेरातृको जैव च // 67 // जीव प्राणधारणे इत्यस्मादातृकः प्रत्ययो भवति, जैव् इत्यादेशश्च / नैवातृकः आयुष्मान् चन्द्रः आम्रः वैद्यः मेघश्च / जैवातृका जीवद्वत्सा स्त्री // 67 // ___ कृति-पुति-लति-भिदिभ्यः कित् // 76 // - एभ्यः कित् तिकः प्रत्ययो भवति ।कृतैत् छेदने कृत्तिका नक्षत्रम् / पुतिलती सौत्रौ पुत्तिका मधुमक्षिका / लत्तिका वाद्यविशेषः गौः गोधा च / गोपूर्वाद् गोलत्तिका गृहगोलिका। अवपूर्वाद् अक्लत्तिका गोधा / आलत्तिका गानप्रारम्भः / भिदंपी विदारणे भित्तिका कुड्यम् मापादिचूर्ण शरावती नदी च // 76 // चण्डि-मल्लिभ्यामातकः // 82 // आभ्यामातकः प्रत्ययो भवति / चडुङ् कोपे चण्डातक नर्तक्यादिवासः / भल्लि परिभाषणहिंसादानेषु भल्लातकः वृक्षः // 82 // श्लेष्मातकाम्रातकामिलातकपिष्टातकादयः // 83 // एते आतकप्रत्ययान्ता निपात्यन्ते। श्लिषेः श्लेष्मातक: