________________ (324 ) कफेलुः / अमण रोगे आम्रातकः वृक्षः / नपूर्वात् म्लैधातोः मिलादेशे अमिलातकं वर्णपुष्पम् / पिषेः पिष्टातकं वर्णचूर्णम् // 83 // गम्यमिरम्यजिगद्यदिछागडिखडिगभवस्वृभ्यो गः // 12 // - एभ्यो गः प्रत्ययो भवति / गम्लं गतौ गङ्गा देवनदी / अम् गतौ अङ्गम् शरीरावयवः / अङ्गः समुद्रः वह्निः राजा च / अङ्गा जनपदः / रमिं क्रीडांयां रङ्गः नाट्यस्थानम् / अज क्षेपणे च वेगः त्वरा रेतश्च / गद व्यक्तायां वाचि गदः वाग्विकलः / अदक् भक्षणे अद्गः समुद्रः अग्निः पुरोडाशश्च / छोच छेदने छागः बस्तः / गड सेचने गड्गः मृगजातिः / खडण भेदे खड्गः मृगविशेषः असिश्च / गत् निगरणे गर्गः ऋषिः / टुडुगक पोषणे च भर्गः रुद्रः सूर्यश्च / वृगट वरणे वर्गः संघातः / औस्वृ शब्दोपतापयोः स्वर्गः नाकः // 92 // पति-तमि-तृ-पृ-क-शू-त्वादेरङ्गः // 98 // एभ्योऽङ्गः प्रत्ययो भवति / पत्ल गतौ पतङ्गः पक्षी शलभः सूर्यः शालिविशेषश्च / तमूच् काङ्क्षायां तमङ्गः हर्म्यनिहः / तृ प्लवनतरणयोः तरङ्गः ऊर्मिः / पृश् पालनपूरणयोः परङ्गः खगः वेगश्च / कत् विक्षेपे करङ्गः कर्मशीलः / शश् हिंसायाम् शरङ्गः पक्षिविशेषः / लूगश् छेदने लवङ्गः सुगन्धिवृक्षः // 98 // मनेर्मत्-मातौ च // 10 // मनिच् ज्ञाने इत्यस्माद् धातोः अङ्गः प्रत्ययो भवति, मत्मातौ