________________ ( 322) व्याप्ता, नशौच अदर्शने एषां स्वरान्नोन्तश्च कचुकः कूर्पासः / अंशुकं वस्त्रम् / नंशुकः रणरेणुः प्रवासशीलः चन्द्रः प्रावरणं च / पचेः पाक् च पाकुकः लघुपाची सूपः सूपकारः अध्वर्युश्च / हिनोतिचिनोतिनमतीनां बोऽन्तश्च हिबुकं लग्नाच्चतुर्थस्थानं रसातलं च / चिबुकं मुखाधोभागः / जम्बुकः शृगालः / चुलुम्पः सौत्रो धातुः अन्त्यस्वरादिलोपश्च चुलुकः करकोशः / चतेश्चूच् च चूचुक: स्तनाग्रभागः / ज्वलेरुल्म् चं उल्मुकम् अलातम् / भातेर्वोन्तश्च मावुकः भगिनीपतिः / प्रथिष् प्रख्याने पृथुकः शिशुः व्रीह्याद्यभ्यूपश्च / मचि कल्कने धन्तादेशश्च मधुकं यष्टिमधु // 27 // मृमन्यभिनलिवलितलिमलिमल्लिभालिमण्डिबन्धिभ्य ___ऊकः // 58 // एभ्यो धातुभ्य उकः प्रत्ययो भवति / मृत् प्राणत्यागे मरूकः मयूरः मृगः निदर्शनेभः तृणं च / मनिंच ज्ञाने मनूकः कृमिजातिः / अञ्जौप व्यक्तिम्रक्षणगतिषु अजूकः हिंस्रः / जल घात्ये जलका जलजन्तुः / बल प्राणनधान्यावरोधयोः बलूकः उत्पलमूलं मत्स्यश्च / तल प्रतिष्ठायां तलूकः त्वक्कृमिः / मलि धारणे मलुकः सरोनशकुनिः / मल्लि धारणे मल्लूकः कृमिजातिः / भलिण आभण्डने भालूकः ऋक्षः / मडु भूषायां मण्डूकः दुर्दुरः / बन्धंश बन्वने बन्धूकः बन्धूनीवः // 18 // शम्बूकशाम्बूकधूकमधूकोलूकोरुकवरूकादयः // 61 //