________________ (321) सृणीकास्तीकातीकपूतोकसमीकवाहीकवालीकवल्मीककल्म: लीकतिन्तिडीककङ्कणीककिङ्किणीक पुण्डरीकचञ्चरीक फर्फरोकझझरीकघर्घरीकादयः // 50 // एते किदीकप्रत्ययान्ता निपात्यन्ते / सृ गतौ सृणीकः वायुः अग्निः अशनिः उन्मत्तश्च / सृणीका लाला। असूक् भुवि अ. स्तीकः जरत्कारुसुतः / प्रांक पूरणे प्राति शरीरमिति प्रतीक वायुः अवयवः सुखं च / सुप्रतीकः दिग्गजः / पूङ् पवने पूतीकं तृणजातिः / इण् गतौ संयन्ति अस्मिन्निति समीकं संग्रामः। वहीं प्रापणे, वह्ल गतौ वाहीकः वाह्लीकः एतौ देशौ / वल संवरणे वल्मीकः नाकु / कल संख्याने कल्मलीकं ज्वाला / तिमः तिन्तिडीकः पक्षी वृक्षाम्लश्च / चसण्यतेः कङ्कण् च कङ्कणीकः घण्टांनालम् / किमः परात् कणतेः किङ्किणीका घण्टिका / पुणेः पुण्डरीकं पद्मं छत्रं व्याघ्रश्च / चञ्चेः चञ्चरीकः भ्रमरः / पिपतेर्द्वित्वं गुणः पकारयोः फत्वं रश्च पूर्वस्यान्तः फर्फरीकं . पल्लवं पादुका मर्दलिका च / झीर्यतेः द्वित्वं तृतीयाभावः पूर्वस्य रश्चान्तः झझरीकः देहः / झझरीका वादिनभाण्डम् / घरतेः घर्घरीका घण्टिका // 50 // कञ्चुकांशुकनंशुकपाकुकहिबुकचिबुक नम्बुकचुलुकचूचुको ल्मुकभावुकपृथुकमधुकादयः // 57 // - एते किदुकप्रत्ययान्ता निपात्यन्ते / कचि बन्धने, अशौटि 21