________________ (320) आङः पणि-पनि-पदि-पतिभ्यः // 39 // आङ्ग्रेभ्य एभ्य इकः प्रत्ययो भवति। पणि व्यवहारस्तुत्योः आपणिकः पत्तनवासी व्यवहारज्ञो वा। पनि स्तुतौ आपनिकः स्तावकः इन्दनीलः इन्द्रकीलो वा / पदिंच गतौ आपदिकः इन्द्रनीलः इन्द्रकीलो वा / पत्ल गतौ आपतिकः पथि वर्तमानः मयूरः श्येनः कालो वा // 39 // ____नसि-वसि-कीसभ्यो णित् // 40 // एभ्यो णिद् इकः प्रत्ययो भवति / णसि कौटिल्ये नासिका घ्राणम् / वसं निवासे वासिका माल्यदामविशेषः / कस गतौ कासिका वनस्पतिः // 40 // पापुलिकृषिक्रुशिवश्विभ्यः कित् // 41 // एभ्यः किद् इकः प्रत्ययो भवति / पापाने पिकः कोकिलः / पुल महत्त्वे पुलिकः मणिः / कृषीत् विलेखने कृषिक: पामरः / क्रुशं आहानरोदनयोः क्रुशिकः क्रोष्टुकः उलूकश्च / ओवश्वौत् छेदने वृश्चिकः सविषः कीटः राशिश्च नक्षत्रपादनवकरूपः / प्राङः पणि-पनि-कषिभ्यः // 42 // प्राङ एतस्मादुपसर्गसमुदायात् परेभ्य एभ्यः किदिकः प्रत्ययो भवति / पणि व्यवहारस्तुत्योः प्रापणिकः वणिक् / पनि स्तुतौ प्रापनिकः पथिकः / कष हिंसायां प्राकषिकः वायुः खलः नर्तकः मालाकारश्च // 42 //