________________ ( 319) तडाकं सरः / गंड सेचने गडाकः शाकजातिः / भदुङ् सुखकल्याणयोः भन्दाकं शासनम् / वदुङ् स्तुत्यभिवादनयोः वन्दाकः चीवरभिक्षुः / मदुङ् स्तुत्यादिषु मन्दाका औषधी। णमं प्रहुत्वे नमाका म्लेच्छजातिः / कुंङ् शब्द कवाकः पक्षी / टुहुँ उपतापे दवाकः म्लेच्छः / पूङ पवने पवाका वात्या / मनिंच् ज्ञाने मनाका हस्तिनी / खज मन्थे खजाकः आकरः मन्थाः दर्विः आकाश बन्धकी शरीरं पक्षी च / / 34 // मवाक-श्यामाक-वार्ताक-वृन्ताक-ज्योन्ताक-गूवाक भद्राकादयः // 37 // एते आकप्रत्ययान्ता निपात्यन्ते / मव्य बन्धने मवाकः रेणुः / श्यैङ गतौ श्यामाकः जबन्यो व्रीहिः / वृतूङ् वर्तने वार्ताकी शाकविशेषः तत्फलं वार्ताकम् / विरान्नोन्तश्च वृन्ताकी उच्चवृहती तत्फलं वृन्ताकम् / ज्युङ् गतौ स्विद्यमानो ज्यवतेऽस्मिन्निति ज्योन्ताकम् स्वेदसमविशेषः / गुत् पुरीपोत्सर्गे, गुङ् शब्दे वा गूवाकं पूगफलम् / भदुङ सुखे कल्याणे च भद्राकः अकुटिलः॥२७॥ क्रीकल्यलिदलिस्फटिपिभ्य इकः // 38 // एभ्य इकः प्रत्ययो मवति / डुक्रींग्श् द्रव्यविनिमये क्रयिका क्रेता / कलि शब्द-संख्यानयोः कलिका कोरकः / उत्कलिका उर्मिः / अली भूषणादौ अलिकं ललाटम् / दल विशरणे दलिकं दारु / स्फट स्फुट्ट विशरणे स्फटिकः मणिः। दुषंच वैकृत्ये दूषिका नेत्रमलः // 38 //