________________ (318) बन्धने कीचकः वंशविशेषः / पचीं पाके पेचकः करिजघनभागः / मचि कल्कने मेचकः वर्णः / मनिंच ज्ञाने मेनका अप्सराः / ऋ गतौ अर्भकः बालः / ध्मां शब्दाग्निसंयोगयोः धमकः कीट: कारश्च / हन्क् हिंसायां वधकः हन्ता व्याधिश्च ।वधकं पद्मबीजम् / वृत्रवधः शक्रः / लघुङ् गतौ लघकः असमीक्ष्यकारी। जहकः निर्माचकः कालः क्षुद्रश्च / ईरिक् गति-कम्पनयोः एरका उदकतृणजातिः। ईडिक् स्तुतौ एडका अविजातिः / अशौटि व्याप्तौ अश्मका जनपदः / रमिं क्रीडायां लमकः ऋषिविशेषः / क्षुद्रूपी संपेषे / क्षुल्लकं दभ्रम् / क्षुधं लातीति क्षुल्लः, क्षुल्ल एव क्षुल्लकः / वट वेष्टने वट्वका तृणपुञ्जः / आङ्पूर्वाद् ढौकतेः आढकं मानम् / आदिग्रहणात् कला आपिबन्तीति कलापकाः शास्त्राणि / कथयतीति कथकः तोटकानामाख्यायिकादीनां च वर्णयिता // 33 // शलिबलिपतिवृतिनभिपटितटितडिगडिभन्दिवन्दिमन्दिनमिकु ___दु मनिखनिभ्य आकः // 34 // एभ्यो धातुभ्य आकः प्रत्ययो भवति / पल फल शल गतौ, शलि चलने वा शलाका एषणी पूरणरेखा द्यूतोपकरणं सूची च / बल प्राणनधान्यावरोधयोः बलाका जलचरी शकुनिः / पत्ल गतौ पताका वैजयन्ती / वृतूङ् वर्तने वर्ताका शकुनिजातिः / णभच् हिंसायां नभाकः चक्रवाकजातिः तमः काकश्च / पट गतौ पटाका वैजयन्ती पक्षिनातिश्च / तट उच्छाये तटाकं सरः / तडण् आघाते