________________ ( 317) दृकृनसृशृमृस्तुकुक्षुलचिचरिचटिकटिकण्टिचणिचषिफ'लिवमितम्यविदेविबन्धिकनिजनिमशिक्षारिकूरितिवल्लि मल्लिसल्लयलिभ्योऽकः // 27 // एभ्यो धातुभ्य अकः प्रत्ययो भवति / हणाति दरकः भीरुः। करकः जलभाजनम् कमण्डलुश्च / करका वर्षपाषाणः / नरकः निरयः / सरकः मद्यविशेषः / सरका मधुपानवारः / भरकः गौण्यादिः / धरकः सुवर्णोन्माननियुक्तः / वरकः वधूजातिसहायः वृक्षजातिविशेषश्च / मरकः जनोपद्रवः / स्तबकः पुष्पगुच्छः / कवकम् अभक्ष्यद्रव्यविशेषः / क्षवकः राजसर्षपः / लचकः रङ्गोपजीवी / चरकः मुनिः / चटकः पक्षी / कटकः वलयः / कण्टकः तरुरोम / चणकः मुनिः धान्यविशेषश्च / चषकः पानभाजनम् / फलकः खेटकम् / वमकः कर्मकरः / तमकः व्याधिः क्रोधश्च / अवका शैवलम् / देवका अप्सराः / देविका नदी / बन्धकः चारकपालः / कनकं सुवर्णम् / जनकः सीतापिता / मशकः क्षुद्रजन्तुः / क्षारकं बालमुकुलम् / कोरकं प्रौढमुकुलम् / वर्तका वर्तिका वा शकुनिः / वल्लकी वीणा / मल्लकः शरावः / मल्लिका पुष्पजातिः दीपाधारश्च / सल्लः सौत्रो धातुः सल्लकी वृक्षः / अलकः केशविन्यासः / अलका पुरी // 27 // कीचकपेचकमेनकाकधमकवधकलघकजहकैरकैडकाश्मक लमकक्षुल्लकवदवकाढकादयः // 33 // कीचकादयः शब्दा अप्रत्ययान्ता निपात्यन्ते / कचि