________________ (316) अनेन जानु जरुजङ्घासन्धिमण्डलम् / रहति गृहीत्वा सूर्याचन्द्रमसौ स्वशरीरं वा राहुः सैंहिकेयः / एतीत्यायुः पुरुषः शकटम् औषधं जीवनं पुरूरवःपुत्रो वा / एवं जरायुः गर्भवेष्टनम् / जटायुः पक्षी / धनायुः देशः / रसायुः भ्रमरः // 1 // अः॥२॥ सर्वधातुभ्यो यथायोगमकारः,प्रत्ययो भवति / भवः / तरः। वरः। शयः / स्तवः / प्लवः / परः / करः / चरः / कदः इत्यादि // 2 // नत्रः क्रमिगमिशमिखन्याकमिभ्यो डित् // 3 // ननः परेभ्य एभ्यः अः प्रत्ययो भवति, स च डिद् / न क्रामति नकः जलचरो ग्राहः / न गच्छति नगः पर्वतः वृक्षश्च / न शाम्यति नशः यक्षः पिशाचो वा / न खनति नखः करजः / नात्राकमस्तीति नाकः स्वर्गः // 3 // गो द्वे च // 7 // करोतेः किदप्रत्ययो भवति, धांतोश्च द्वित्वम् / करोतीति चक्रं रथाङ्गमायुधं च // 7 // पृ-पलिभ्यां टित् पिप् च पूर्वस्य // 11 // आभ्यामः प्रत्ययो भवति स च टिद् , अनयोश्च सरूपे द्वेरूपे पूर्वस्थाने पिपादेशश्च भवति / पृणाति च्छायया पिप्परी वृक्षजातिः / पलति आतुरं पिप्पली औषधजातिः // 11 //