________________ (315) हृष्टाः, हृषिता वा दन्ताः प्रतिहता इत्यर्थः / 'अपपूर्वात् चायधातोः स्तान्तस्येडाभावः चिश्चादेशो निपात्यते' / अपचितः / 'अनुपसगम्य प्यायतेः क्तयोः पी' इति पीनः / पीनवान् / पीनवद् मुखम्। अथोणादिगणः। कुवापाजिस्वदिसाध्यशोदृस्नासनिननिरहीणभ्य उण् / / 1 // सत्यर्थे वर्तमानेभ्यः करोत्यादिभ्यो धातुभ्यः सम्प्रदानापादानाभ्यामन्यस्मिन् कारके भावे च सञ्ज्ञायां विषये बहुलमु प्रत्ययो भवति / करोति कृणोति वा कारुः नापितादिः, इन्द्रश्च / वाति वायति वा द्रव्याणि वायुः नभस्वान् / पिबति तैलादि द्रव्यमनेन पायुः अपानमुपस्थश्च / जयति रोगाजू श्लेष्माणं वाऽनेन जायुः औषधं पितं वा / स्वद्यतेऽनेनेदं वा स्वादुः रुच्यः / साध्नोति उत्तमक्षमादिभिः तपोविशेपैः भावितात्मा स्वपरकार्याणीति साधुः, वा सम्यग्दर्शनादिभिः साध्नोति परमं पदं साधुः संयतः, उभयलोकं साधयतीति साधुः धर्मशीलः / अश्नुते तेजसा सर्वमिति आशुः सूर्यः / अश्नुते आशुः शीघ्रगामी / दरति दृणाति वा दारु काष्ठम् / स्नायति स्नायुः अस्थिनहनम् / सनति सनोति वा मृगादीनिति सानुः पर्वतैकदेशः / जायते आकुञ्चनादि