________________ (314) क्तयोरादिरिड् वा भवति / मिन्नमनेन, मेदितं वा। प्रमिन्नः, प्रमेदितः / प्रमिन्नवान् , प्रमेदितवान् / शकः कर्मणि / 4 / 4 / 73 / शकेः कर्मणि क्तयोरादिरिड वा भवति / शक्तः, शकितो वा पृटः कर्तुं चैत्रेण। गौ दान्तशान्तपूर्णदस्तस्पच्छन्नज्ञप्तम् / 4 / 4 / 74 / - दमादीनां धातूनां णौ सति क्ते परे एतानि निपात्यन्ते वा। दान्तः, दमितः / शान्तः, शमितः / पूर्णः, पूरितः / दस्तः, दासितः / स्पष्टः, स्पाशितः / छन्नः, छादितः / ज्ञप्तः, ज्ञपितः / - श्वसजपवमरुषत्वरसंघुषास्वनामः / 4 / 4 / 75 / __एभ्यो धातुभ्यः क्तयोरादिरिड् वा भवति / श्वस्तः, श्वसितः / जप्तः, जपितः / जप्तवान् , जपितवान् / वान्तः, . वमितः / वान्तवान् , वमितवान् / रुष्टः, रुषितः / रुष्टवान् , रुषितवान् / तूर्णः, त्वरितः / तूर्णवान् , त्वरितवान् / संजुष्टम् , संबुषितम् / संधुष्टवान् , संघुषितवान् / आस्वान्तः, आस्वनितः / अभ्यमितः, अभ्यान्तः / . हृषेः केशलोमविस्मयप्रतीघाते / 4 / 4 / 76 / / हृषेः केशाद्यर्थेषु क्तयोरादिरिड् वा भवति / केशलोमकर्तृका क्रिया केशलोमशब्देनोच्यते / हृष्टाः, हृषिता वा केशाः / हृष्टानि, हृषितानि वा लोमानि / हृष्टः, हृषितों वा जिनदत्तः /