________________ (313) कष्धातोः परयोः कृच्छे गहने चार्थे क्तयोरादिरिड न भवति / कष्टोऽग्निः / कष्टं वनम् / / घुषेरविशब्दे / 4 / 4 / 68 / अविशब्दार्थाद् घुषेः क्तयोरादिरिड़ न भवति / घुष्टा रज्जुः / घुष्टवान् / बलि-स्थूले दृढः / 4 / 4 / 69 / बलवति / स्थूले चार्थे हहेः हेर्वा क्तान्तस्य दृढ इति निपात्यते / दृढः वली स्थूलो वा / बलिस्थूल इति किम् ? हहितम् , हितम्। क्षुब्धविरिब्धस्वान्तध्वान्तलग्नम्लिष्टफाण्टबाढपरिवृढं मन्थस्वरमनस्तमासक्तास्पष्टानायासभृशप्रभौ / 4 / 4 / 70 / - एते क्तप्रत्ययान्ता मन्थादिष्वर्थेषु निपात्यन्ते / क्षुब्धः सरित्पतिः / विरिब्धः स्वरः / स्वान्तं मनः / ध्वान्तं तमः / लग्नमासक्तम् / म्लिष्टमस्पष्टम् / . फाण्टमनायाससाध्यम् / बाद भृशम् / परिवृढः प्रभुः / आदितः / 4 / 4 / 71 / . आदितो धातोः परयोः क्तयोरादिरिड् न भवति / मिन्नः / मिन्नवान् / . नवा भावारम्भे / 4 / 4 / 72 / आरम्भः प्रथमा क्रिया। आदितो धातोः आरम्भे भावे चार्थे