________________ ( 312) डीच्धातोः श्वे ऐदिद्यश्च धातुभ्यः क्तयोरादिरिड् न मवति / डीनः / डीनवान् / शूनः / शूनवान् / त्रस्तः / त्रस्तवान् / वेटोऽपतः / 4 / 4 / 62 / / विकल्पेनेड् येभ्यस्तेभ्यः पत्लवर्नेभ्य एकस्वरेभ्यः क्तयोरादिरिड् न भवति / रद्धः / रद्धवान् / अपत इति किम् ? पतितः / सं-नि-वेरर्दः / 4 / 4 / 63 / एभ्यः परादः क्तयोः आदिरिड् न भवति / समर्णः / समर्णवान् / न्यणः / न्यर्णवान् / व्यर्णः / व्यर्णवान् / अविदुरेऽभेः / 4 / 4 / 64 / / - अभेः परादर्देर विदूरेऽर्थे क्तयोरादिरिड् न भवति / अभ्यर्णः / अभ्यर्णवान् / वर्तेवृत्तं ग्रन्थे / 4 / 4 / 65 / ण्यन्ताद् वृत्तेः क्तप्रत्यये ग्रन्थविषये वृत्तमिति निपात्यते / वृत्तो गुणश्छात्रेण / धृष-शसः प्रगल्भे / 4 / 4 / 66 / - आभ्यां क्तयोरादिरिड् न भवति प्रगल्भेऽर्थे / धृष्टः / विशस्तः प्रगल्भ इत्यर्थः / कषेः कृच्छ्र-गहने / 4 / 4 / 67 / /