________________ स्वरान्तादुपसर्गात् परस्य दासज्ञकस्य तादौ किति परे तो भवति, धाधातुं वर्जयित्वा / प्रत्तः / प्रत्तवान् / दत् / 4 / 4 / 10 / धावर्जितस्य दासङ्घकस्य तादौ किति परे दत् भवति / दत्तः / दत्तवान् / . दो-सो-मा-स्थ इः / 4 / 4 / 11 / एषां तादौ किति परे इर्भवति / निर्दितः। सित्वा / मितिः / स्थितः / स्थितवान् / छा-शोर्वा / 4 / 4 / 12 / अनयोः तादौ, किति परे इकारो वा भवति / अवच्छातः, अवच्छितः / निशितः, निशातः / हाको हिः क्त्वि / 4 / 4 / 14 / _ हाकः क्त्वांप्रत्यये परे हिः भवति / हित्वा / क्वीति किम् ? हीनम् / धागः / 4 / 4 / 15 / धागस्तादौ किति परे हिः भवति / हितः / विहितः / हित्वा / उवर्गात् / 4 / 4 / 58 / __उवर्णान्तादेकस्वराद् धातोर्विहितस्य कित. आदिरिड न भवति / युतः / लूनः। डीयश्व्यैदितः क्तयोः। 4 / 4 / 61 /