SearchBrowseAboutContactDonate
Page Preview
Page 621
Loading...
Download File
Download File
Page Text
________________ (310) अनुपसर्गाः क्षीवोल्लाघ-कृश-परिकृश-फुल्लोत्फुल्ल-संफुल्लाः। 4 / 2 / 80 / उपसर्गरहिता एते क्तान्ता निपात्यन्ते / क्षीवृ मदे सीवः / ला सामर्थ्य उल्लाघः / कृश तनुकरणे कृशः, परिकृशः / जिफला विशरणे फुल्लः, उत्फुल्लः, संफुल्लः / भित्तं शकलम् / 4 / 2 / 81 / भिदेः परस्य क्तस्य शकलपर्याये नृत्वाभावो निपात्यते / भित्तं शकलमित्यर्थः / वित्तं धन-प्रतीतम् / 4 / 2 / 82 / विन्दतेः परस्य क्तस्य धनप्रतीतरूपे पर्याये नत्वाभावो निपात्यते / वित्तं धनमित्यर्थः / वित्तः प्रतीत इत्यर्थः / अन्यत्र विनः / प्राद् दागस्त आरम्भे क्ते / 4 / 4 / 7 / प्रपूर्वादारम्भार्थस्य दागः क्ते परे तो वा भवति / प्रत्तः, प्रदत्तः / नि-वि-स्वन्ववात् / 4 / 4 / 8 / एभ्यः परस्य दागः क्ते परे तो वा भवति / नीत्तम् , निदत्तम् / वीत्तम् , विदत्तम् / सूत्तम् , सुदत्तम् / अनूत्तम् , अनुदत्तम् / अवत्तम् , अवदत्तम् / / स्वरादुपसर्गाद् दस्ति कित्यधः / 4 / 4 / 9 /
SR No.004395
Book TitleDharmdipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy