________________ एभ्यः परौ सेटौ क्त-क्तवतू किवद् न भवतः / डयितः / डयितवान् / शयितः / शयितवान् / पवितः / पवितवान् / धर्षितः। धर्षितवान् / श्वेदितः / श्वेदितवान् / स्वेदितः / स्वेदितवान् / मेदितः / मेदितवान् / सेटावित्येव डीनः / डीनवान् / मृपः क्षान्तौ / 4 / 3 / 28 / क्षमार्थाद् मृष्धातोः सेटौ क्त-क्तवतू किद्वद् न भवतः / मर्षितः / मर्षितवान् / ___ ह्रादो हृद् क्तयोश्च / 4 / 2 / 67 / ह्लादः क्तयोः क्तौ च परेषु हृद् भवति / हन्नः / हन्नवान् / हृत्तिः / ____ अल्वादेरेषां तो नोऽप्रः / 4 / 2 / 68 / पूवर्जाद् ऋदन्ताद् ल्वादिभ्यश्च परेषां क्त-क्तवतु-क्तीनां तस्य नो भवति / तीर्णः / तीर्णवान् / तीणिः / लूनः / लूनवान् / लूनिः / धूनः / धूनवान् / धूनिः / अन इति किम् / पूर्तः / पूर्तवान् / पूर्तिः / रदादमूर्च्छमदः क्तयोर्दस्य च / 4 / 2 / 69 / मूर्छिमदिवर्जिताद् रकारान्ताद दकारान्ताच धातोः परयोः क्तक्तवत्वोः तो नो भवति, तत्संनियोगे धातोर्दस्यापि नो भवति / पूर्णः / पूर्णवान् / गूर्णः / गूर्णवान् / भिन्नः / भिन्नवान् / छिन्नः / छिन्नवान् / अमूर्च्छमद इति किम् ? मूर्तः, मूर्तवान् / मत्तः, मत्तवान्।रदादिति किम् ? चरितम् , मुदितम् अत्रेटा व्यवधानान्न भवति।