________________ ( 308) सूयत्यायोदितः। 4 / 2 / 70 / नवभ्यः सूयत्यादिभ्य ओदिभ्यश्च परयोः क्तयोः तो नो भवति / सूनः / सूनवान् / दूनः / दूनवान् / लग्नः / लग्नवान् / उद्विग्नः / उद्विग्नवान् / पीनः / पीनवान् / शूनः / शूनवान् / . व्यञ्जनान्तस्थातोऽख्याध्यः / 4 / 2 / 71 / ख्याध्यावर्जस्य धातोर्यद् व्यञ्जनं तस्मात् परा याऽन्तस्था तस्याः परो य आकारः तस्मात् परयोः क्तयोः तो नो भवति / स्त्यानः / स्त्यानवान् / व्यञ्जनेति किम् ? यातः / अन्तस्था इति किम् ? स्नातः / आत इत्येव च्युतः / अख्याध्य इति किम् ? ख्यातः, ख्यातवान् ; ध्यात', ध्यातवान् / आतः परस्येति किम् ? दरिदितः / पूदिव्यञ्चे शायूतानपादाने / 4 / 2 / 72 / एभ्यो यथासंख्यं नाशाद्यर्थेभ्यः परयोः क्तयोः तो नो भवति। पूना यवाः / आद्यूनः / समनौ पक्षौ / नाशाद्यूतानपादान इति किम् ? पूतम् , द्यूतम् , उदक्तम् / सेसे कर्मकर्तरि / 4 / 2 / 73 / सेः परयोः क्तयोः ग्रासे कर्मकर्तरि तो नो भवति / सिनो ग्रासः स्वयमेव / कर्मकर्तरीति किम् ? सितो ग्रासो मैत्रेणं / क्षेः क्षी चाध्यार्थे / 4 / 2 / 74 /