________________ (3.06 ) पवित्रोऽर्हन् / 'ऋषावर्थे सज्ञायां च पूधातोः करणे इत्रो वक्तव्यः / पुनात्यनेनेति पवित्रः ऋषिः, दर्भो वा। लू-धू-मू-खन-चर-सहार्तेः। 5 / 2 / 87 / एभ्यः सदर्थेभ्यः करणे इत्रो भवति / लवित्रम् / पवित्रम् / सवित्रम् / खनित्रम् / चरित्रम् / सहित्रम् / अरित्रम् / / नीदांशसूयुयुजस्तुतुदसिसिचमिहपतपानहस्त्रट् / 5 / 2 / 88 एभ्यः सदर्थेभ्यः करणे त्रड् भवति / नेत्रम् / दात्रम् / शस्त्रम् / योत्रम् / योक्त्रम् / स्तोत्रम् / तोत्रम् / सेत्रम् / सेक्त्रम् / मेढ़म् / पत्त्रम् / पात्रम् / नधी / 'पूधातोः हलास्ये कोडास्ये च करणे त्रट् वाच्यः' पोत्रं हलमुखं क्रोडमुखं वा। 'दशः करणे दंष्ट्रा निपात्यते' 'धाधातोः कर्मणि धात्री निपात्यते / क्त-क्तवतू / 5 / 1 / 174 / / ___ भूतार्थाद् धातोः क्त-क्तवतू भवतः / कृतः / भूतः / पक्वः / एधितः / भूतवान् / कृतवान् / जात शवाझ्यः क्तौ भावारम्भे / 4 / 3 / 26 / उकारोपान्त्येभ्यः शवहेभ्योऽदादिभ्यश्च धातुभ्यः पगै भावारम्भे विहितौ क्त-क्तवतू सेटौ वा किद्वद् भवतः / कुचितम् , कोचितमनेन / प्रकुचितः, प्रकोचितः / प्रकुचितवान्, प्रकोचितवान् / रुदितम् , रोदितं तैः / प्ररुदितः, प्ररोदितः / प्ररुदितवान् , प्ररोदितवान् / च डीशीङ्पूकृषिक्ष्विदिस्विदिमिदः / 4 / 3 / 27 /