________________ सभिक्षाऽऽसेरुः / 5 / 2 / 33 / शीलादिसदर्थेभ्यः सन्नन्तभिक्षाऽऽशंसिभ्य प्रत्ययो भवति / लिप्सुः / चिकीर्षुः / भिक्षुः / आशंसुः / / विन्दिच्छु / / 2 / 34 / शीलादिसदाभ्यामाभ्यां वेत्तीच्छिभ्यां यथासंख्यं नुपान्त्य च्छान्तादेशौ च निपात्येते / वेत्ति तच्छीलः विन्दुः / इच्छुः / : शु-चन्देरारुः / 5 / 2 / 35 / / ' शीलादिसदाभ्यामाभ्यामारुः भवति / शरारुः / विशरारुः / चन्दारुः / दा-धे-मि-शद-सदो रुः / 5 / 2 / 36 / शीलादिसदर्थेभ्य एभ्यो रुः प्रत्ययो भवति / दारुः / धारुः / सेरुः / शगुः / सद्रुः। . . शीश्रद्धानिद्रातन्द्रादयिपतिगृहिस्पृहेरालुः / 5 / 2 / 37 / ___शीलादिसदर्थेभ्य एभ्य आलुः प्रत्ययो भवति / शयालुः / श्रद्धालुः / निद्रालुः / तन्द्रालुः / दयालुः / पतयालुः / गृहयालुः / स्पृहयालुः / ___ ङौ सासहिवावहिचाचलिपापति / 5 / 2 / 38 / ____ एते यङन्ता डिप्रत्ययान्ता निपात्यन्ते / सासहिः / वावहिः / चाचलिः / पापतिः / सास्त्रि-चक्रि-दधि-जज्ञि-नेमि / 5 / 2 / 39 / . - एते यङन्ता डिप्रत्ययान्ता निपात्यन्ते / सस्त्रिः / चक्रिः / दधिः / जज्ञिः / नेमिः /