________________ ( 301) शूकमगमहनवृषभूस्थ उकण् / 5 / 2 / 10 / ... - शीलादिसदर्थेभ्य एभ्य उकण् भवति / शारुकः / कामुकः / / गामुकः / घातुकः / वय्कः / भावुकः / स्थायुकः / लष-पत-पदः। 5 / 2 / 41 / एभ्यः शीलादिसदर्थे उकण भवति / अभिलाषुकः / पातुकः। पादुकः / भूषाक्रोधार्थजुमृगृधिज्वलशुचश्चानः / 5 / 2 / 42 / __भूषार्थेभ्यः क्रोधार्थेभ्यो ज्वादिभ्यो लषादिभ्यश्च शीलादिसदर्थेभ्यः अनः भवति / भूषणः / क्रोधनः / कोपनः / जवनः / / सरणः / गर्धनः / ज्वलनः / शोचनः / लषणः / पतनः / पदनः। __चलशब्दार्थादकर्मकात् / 5 / 2 / 43 / चलनार्थाच्छब्दार्थादकर्मकात् शीलादिसदर्थे अनो भवति / चलनः / रवणः / अकर्मकादिति किम् ? पठिता विद्याम् / इङितो व्यअनाद्यन्तात् / 5 / 2 / 44 / व्यञ्जनमादि अन्तं च यस्य तस्मादिदितो ङितश्च शीलादिसदर्थे अनो भवति / स्पर्धते तच्छीलः स्पर्धनः / वर्तनः / 'यङन्ताभ्यां द्रमक्रमाभ्यामनो वाच्यः' / दंद्रमणः / चंक्रमणः / न गिङ्-य-सूद-दीप-दीक्षः। 5 / 2 / 15 / . णिङन्ताद् यन्तात् सूदादिभ्यश्च शीलादिसदर्थेभ्य अनः /