________________ ( 299) तृन् शील-धर्म-साधुषु / 5 / 2 / 27 / वर्तमानकालार्थाद् धातोः शीलाद्यर्थेषु तृन् प्रत्ययो भवति / करोति तच्छीलः कर्ता कटम् / मुण्डयितारः श्राविष्ठायनाः / गत्ता खेलः / भ्राज्यलंकगनिराकम्भूसहिरुचिकृत्तिद्धिचरिप्रजनापत्रप . इष्णुः / 5 / 2 / 28 / वर्तमानकालेभ्य एभ्यः शीलाद्यर्थेषु इष्णुः प्रत्ययो भवति / भ्रानिष्णुः / अलंकरिष्णुः / निराकरिष्णुः / भविष्णुः / सहिष्णुः। रोचिष्णुः / वर्तिष्णुः / वर्धिष्णुः / चरिष्णुः / प्रननिष्णुः / अपत्रपिष्णुः / उदः पचि-पति-पदि-मदेः। 5 / 2 / 29 / शीलादिसदर्थेभ्य एभ्य इष्णुः प्रत्ययो भवति / उत्पचिष्णुः / उत्पतिष्णुः / उत्पदिष्णुः / उन्मदिष्णुः / . भू-जेः ष्णुक् / 5 / 2 / 30 / आभ्यां शीलादिसदाभ्यां ष्णुक् भवति / भूष्णुः / जिष्णुः। स्थाग्लाम्लापचिपरिमृजिः स्नुः / 5 / 2 / 31 / एभ्यः सदर्थेभ्यः शीलादौ स्तुः भवति / स्थास्नुः / रलास्नुः / म्लास्नुः / पक्ष्णुः / परिमाणुः / क्षेष्णुः। त्रसि-गृधि-धृषि-क्षिपः क्नुः / 5 / 2 / 32 / शीलादिसदर्थेभ्य एभ्यःक्नुः भवति / त्रस्नुः / गृध्नुः / धृष्णुः। क्षिण्णुः /