________________ (298) वर्तमानार्थाद् धातोः शत्रानशौ भवतः, भविष्यति तु स्ययुक्ती भवतः / गच्छतीति गच्छन् / यातीति यान् / शेते इति शयानः / पचमानः / गमिष्यतीति गमिष्यन् / यास्यन् / शयिष्यमाणः / पक्ष्यमाणः / 'माङयुपपदे आक्रोशेऽपि वक्तव्यौ ' मा पचन् वृषल ! ज्ञास्यसि / मा पचमानोऽसौ मर्तुकामः / / वा वेत्तेः क्वसुः / 5 / 2 / 22 / / ... वर्तमानार्थाद् वेत्तेः क्वसुर्वा भवति / वेत्तीति विद्वान् , विदन् सत्त्वम् / पूड-यजः शानः / 5 / 2 / 23 / आभ्यां वर्तमानार्थाभ्यां परः शानः प्रत्ययो भवति / पवते इति पवमानः / यजमानः। वय:-शक्ति-शीले। 5 / 2 / 24 / वर्तमानार्थाद् धातोः परः शानो भवति, एषु अर्थेषु गम्येषु / स्त्रियं गच्छमानः / समश्नानः / निन्दमानः / धारीडोऽकृच्छ्रेऽतृश् / 5 / 2 / 25 / वर्तमानार्थाद् धारेरिङश्च परः अकृच्छेऽर्थेऽतृश् प्रत्ययो भवति। धारयन् आचाराङ्गम् / अधीयन् / सुद्विषाहः सत्रिशत्रुस्तुत्ये / 5 / 2 / 26 / - वर्तमानार्थेभ्य एभ्यो यथासंख्यं सत्रिशत्रुस्तुत्येऽर्थे कर्तरि अतृश् प्रत्ययो भवति / सर्वे सुन्वन्तः / चौरं द्विषन् / पूनामर्हन् /