________________ (297) ऋषोऽनुः / 5 / 1 / 173 भूतार्थाद् जुषेरतः प्रत्ययो भवति / जरती / जरन् / नग्नपलितप्रियान्धस्थूलसुभगान्यतदन्ताच्च्व्यर्थे: च्चेर्भुवः खिष्णु-खुको / 5 / 1 / 128 / नग्नादिभ्यः केवलेभ्यस्तदन्तेभ्यश्च व्यर्थे वर्तमानेभ्यः भच्यन्तेभ्यः पराद् भुवः खिष्णु-खुकौ भवतः / अनग्नो नग्नो भवतीति नग्नंभविष्णुः, नग्नंभावुकः / पलितंभविष्णुः, पलितंभावुकः / प्रियंभविष्णुः, प्रियंभावुकः / अन्धभविष्णुः, अन्धंभावुकः / स्थूलंभविष्णुः, स्थूलंभावुकः / सुभगंभविष्णुः, सुभगंभावुकः / आन्यंभविष्णुः, आत्यंभावुकः / तदन्तः सुनग्नंभविष्णुः / कृगः खनट् करणे / 5 / / 129 / - अळ्यन्तेभ्यश्व्यर्थवृत्तिभ्यो नग्नादिभ्यः परात् कृगः करणे खनट् प्रत्ययो भवति / अनग्नो नग्नः क्रियतेऽनेनेति नग्नंकरणं द्यूतम् / पलितंकरणम् / प्रियंकरणम् / अन्धकरणम् / स्थूलंकरणम् / सुभगंकरणम् / आढ्यंकरणम् / भावे चाशिताद् भुवः खः / 5 / 1 / 130 / आशितात् पराद् भूधातोः भावे करणे च खः प्रत्ययो भवति / आशितम्भव ओदनः। शत्रानशावेष्यति तु सस्यौ / 5 / 2 / 20 /